श्री गंगालहरी
अलभ्यं सौरभ्यं हरति सततं यः सुमनसां
क्षणादेव प्राणानपि विरहशस्त्रक्षतहृदां ।
त्वदीयानां लीलाचलितलहरीणां व्यतिकरात
पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनं ॥ ३५॥
कियंतः संत्येके नियतमिहलोकार्थघटकाः
परे पूतात्मानः कति च परलोकप्रणयिनः ।
सुखं शेते मातस्तव खलु कृपातः पुनरयं
जगन्नाथः शश्वत्त्वयि निहितलोकद्वयभरः ॥ ३६॥
आज हम काशी पत्रिका में श्री गंगालहरी के दो और श्लोकों को प्रकाशित कर रहें हैं।
No comments:
Post a Comment