श्री गंगालहरी
अविश्रान्तं जन्मावधि सुकृतजन्मार्जनकृतां
सतां श्रेयः कर्तुं कति न कृतिनः सन्ति विबुधाः ।
निरस्तालम्बानामकृतसुकृतानां तु भवतीं
विनाऽमुष्मिंल्लोके न परमवलोके हितकरं ॥ ४५॥
पयः पीत्वा मातस्तव सपदि यातः सहचरै-
र्विमूढैः संरन्तुं क्वचिदपि न विश्रान्तिमगं ।
इदानीमुत्सङ्गे मृदुपवनसञ्चारशिशिरे
चिरादुन्निद्रं मां सदयहृदये शायय चिरं ॥ ४६॥
आज हम श्री गंगालहरी के दो और श्लोकों को प्रकाशित कर रहें हैं।
No comments:
Post a Comment