श्री गंगालहरी
सदैव त्वय्येवार्पितकुशलचिन्ताभरमिमं
यदि त्वं मामम्ब त्यजसि समयेऽस्मिन्सुविषमे ।
तदा विश्वासोऽयं त्रिभुवनतलाद स्तमयते
निराधारा चेयं भवति खलु निर्व्याजकरुणा ॥ ३९॥
कपर्दादुल्लस्य प्रणयमिलद दर्धाङ्गयुवतेः
पुरारेः प्रेङ्खन्त्यो मृदुलतरसीमन्तसरणौ ।
भवान्या सापत्न्य स्फुरितनयनं कोमलरुचा
करेणाक्षिप्तास्ते जननि विजयन्तां लहरयः ॥ ४०॥
आज हम श्री गंगालहरी के दो और श्लोकों को प्रकाशित कर रहें हैं।
No comments:
Post a Comment